1: -ॐ श्री परमात्मने नमः ।
2: -ॐ नमो भगवते वासुदेवाय ।
3: -यस्य स्मरणमात्रेन जन्मसंसारबन्धनात्। विमुच्यते नमस्तमै विष्णवे प्रभविष्णवे ॥
4: -स्वस्ति न इंद्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्ताक्र्षयो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥
5: -दन्ताभये चक्र दरो दधानं,कराग्रगस्वर्णघटं त्रिनेत्रम्।
धृताब्जया लिंगितमब्धिपुत्रया,लक्ष्मी गणेशं कनकाभमीडे॥
6: -शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम्
विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम्।
लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम्
वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम्॥
7: -ॐ नमो भगवते वासुदेवाय नमः ।
Follow @ChalisaSangrah |
{{com.CommentedByName}}
{{com.CommentMessage}}